17/07/2023

9th PT - 01 EXAM [14.07.2023]

कक्षा-IX _SL PT - 1 Exam दिनांक: 14-07-2023

_____________________________________________________________________________________

समय: 1 hr. विषय: संस्कृत अधिकतम अंक: 20

_____________________________________________________________________________________

खण्डः 'क

निम्नलिखितान् श्लोकान् पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत-

मधुर-मञ्जरी-पिञ्जरी-भूत-मालाः

वसन्ते लसन्तीह सरसाः रसालाः

कलापाः ललित-कोकिल-काकलीनाम्।।

I. एकपदेन उत्तरत- 1M

i) कीदृशाः रसालाः वसन्ते लसन्ति?

II.पूर्णवाक्येन उत्तरत- 1M

i) वसन्ते कासां कलापाः विलसन्ति?

III.भाषिककार्यम्-

i) ‘सरसाः रसालाः’ अनयोः पदयोः विशेषणपदं किम्? 2x½=1M

(क) सरसाः (ख) रसालाः (ग) सरसः (घ) रसालः

ii) ‘नीरसाः’ इत्यस्य पदस्य कः विपर्ययपदम् (विलोमपदम्) अत्र लिखितः?

(क) सरसाः (ख) रसालाः (ग) वाणि (घ) वसन्ते

2. निम्नलिखितान् अनुच्छेदान् पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत-

नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः। तं तण्डुलान् खादन्तं हसन्तं च विलोक्य बालिका रोदितुमारब्धा। तं निवारयन्ती सा प्रार्थयत्- “तण्डुलान् मा भक्षय। मदीया माता अतीव निर्धना वर्तते”। स्वर्णपक्षः काकः प्रोवाच, “मा शुच। सूर्योदयात्प्राग् ग्रामात् बहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्। अहं तुभ्यं तण्डुलमूल्यं दास्यामि”। प्रहर्षिता बालिका निद्रामपि न लेभे।

I. एकपदेन उत्तरत- 1M

i) स्वर्णकाकस्य चञ्चुः कीदृशः आसीत्?

II. पूर्णवाक्येन उत्तरत- 1M

i) स्वर्णपक्षः काकः किं प्रोवाच?


III.भाषिककार्यम्- 2x½=1M

i) अनुच्छेदे ‘हसितुम्’ इति पदस्य कः विपर्ययः लिखितः?

(क) गन्तुम् (ख) रोदितुम् (ग) खादितुम् (घ) आगन्तुम्

ii) ‘तण्डुलान् मा भक्षय’ अत्र क्रियापदं किम्?

(क) तण्डुलान् (ख) मा (ग) भक्षय (घ) अत्र


खण्ड-ख

3.सन्धिं सन्धिच्छेदं वा कुरुत – 5x1=5M

i) यथा + इच्छं 

ii) च + एकाकिनी

iii) ताम्रसोपानेनैव 

iv) सूर्यातपे 

v) तत्रोपस्थिता 

4. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत- 3x1=3M

i) सूर्योदयात् पूर्वमेव सा तत्रोपस्थिता।

ii) ग्रामे निर्धना स्त्री न्यवसत्।

iii) बालिका निर्धनमातुः दुहिता आसीत्।

खण्ड-ग

5.प्रदत्तविकल्पेभ्यः उचितशब्दरूपं चित्वा रिक्तस्थानानि पूरयत-

3x1=3M

i) अस्मिन् कक्षे चत्वारः -------- सन्ति।

(क) बालकाः (ख) बालकान् (ग) बालकेषु (घ) बालकौ

ii) -------- इह आगच्छ।

(क) हे लतायाः! (ख) हे लते! (ग) हे लता! (घ) हे लताः!

iii) अस्यां -------- सुन्दराणि पुष्पाणि विकसन्ति।

(क) लतया (ख) लतायाम् (ग) लतानाम् (घ) लताः

6.प्रदत्तविकल्पेभ्यः उचितधातुरूपं चित्वा रिक्तस्थानानि पूरयत- 3x1=3M

i) प्रतापः देशभक्तः ----------।

(क) आसीः (ख) आसन् (ग) आसीत् (घ) आस्ताम्

ii) अहं श्वः कोलकत्तानगरं ----------।

(क) गमिष्यामि (ख) गमिष्यति (ग) गमिष्यसि (घ) गमिष्यथ

iii) अद्य त्वं पुस्तकं -------।

(क) पठेत् (ख) पठेः (ग) पठेयम् (घ) पठेव




**********ALL THE BEST**********



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

टिप्पणी: केवल इस ब्लॉग का सदस्य टिप्पणी भेज सकता है.